Shri Lakshmi Mantra, Stotra & Stuti : श्री लक्ष्मी जी के प्रमुख मंत्र, स्तोत्र, स्तुति व चालीसा

महालक्ष्मी जी (Mahalakshmi) श्रीविद्या, शक्तिसाधना और वैदिक परंपरा, तीनों में अत्यंत प्रमुख स्थान रखती है। वे विष्णुपत्नी, आदिशक्ति और श्रीस्वरूपिणी कही गई हैं। उनकी उपासना धन, सौभाग्य, शांति, और दिव्य ऊर्जा प्राप्ति का माध्यम मानी जाती है। नीचे हम महालक्ष्मी जी के कुछ मुख्य और सरल मंत्र (Maha Lakshmi Mantra), स्तोत्र, स्तुतियां आदि को क्रमवार विस्तार से बता रहे हैं।
यहां हम दे रहे हैं -
- महालक्ष्मी जी के प्रमुख मंत्र
- श्रीदेवकृत लक्ष्मी स्तोत्र
- अगस्त्यरचितम् लक्ष्मी स्तोत्र
- श्री कनकधारा स्तोत्र
- श्री लक्ष्मी कवच
- श्री अष्टलक्ष्मी स्तोत्र
- श्री लक्ष्मी चालीसा
*****************************************
(1) ॐ महालक्ष्म्यै नमाे नम:॥
ॐ विष्णुप्रियायै नमाे नम:॥
ॐ धनप्रदायै नमाे नम:॥
ॐ विश्वजनन्यै नमाे नम:॥
(2) महालक्ष्मी नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे॥
(3) कराग्रे वसते लक्ष्मिः करमध्ये सरस्वती।
करमूले तु गोविन्द: प्रभाते करदर्शनम्
समुद्रवसने देवि पर्वतस्तनमण्डले।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे॥
अर्थ – मेरे हाथ के अग्रभाग में भगवती मां लक्ष्मी जी का निवास है, मध्यभाग में विद्यादात्री मां सरस्वती जी का और मूलभाग में सृष्टि के पालनहार प्रभु विष्णु जी विराजमान हैं. प्रातः काल की इस बेला में मैं आपका स्मरण कर प्रणाम करता/करती हूं.
(4) ॐ श्रीं महालक्ष्म्यै नम:॥
(5) ॐ श्रीं श्रियै नम:॥
विष्णु सूक्त और श्रीसूक्त, लक्ष्मीसूक्त् (हिंदी अर्थ सहित) (Click here)
********************************************
श्रीदेवकृत लक्ष्मी स्तोत्र (Dev krit Lakshmi Stotram)
क्षमस्व भगवंत्यव क्षमाशीले परात्परे।
शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते॥
उपमे सर्वसाध्वीनां देवीनां देवपूजिते।
त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम्॥
सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी।
रासेश्वर्यधि देवी त्वं त्वत्कलाः सर्वयोषितः॥
कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका।
स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले॥
वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती।
गंगा च तुलसी त्वं च सावित्री ब्रह्मालोकतः॥
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्।
रासे रासेश्वरी त्वं च वृंदावन वने-वने॥
कृष्णा प्रिया त्वं भांडीरे चंद्रा चंदनकानने।
विरजा चंपकवने शतशृंगे च सुंदरी॥
पद्मावती पद्मवने मालती मालतीवने।
कुंददंती कुंदवने सुशीला केतकीवने॥
कदंबमाला त्वं देवी कदंबकाननेऽपि च।
राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे॥
इत्युक्त्वा देवताः सर्वा मुनयो मनवस्तथा।
रूरूदुर्नम्रवदनाः शुष्ककंठोष्ठ तालुकाः॥
इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्।
यः पठेत्प्रातरूत्थाय स वै सर्वै लभेद् ध्रुवम्॥
अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्।
सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम्॥
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम्।
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्।
परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम्।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम्॥
हतबंधुर्लभेद्बंधुं धनभ्रष्टो धनं लभेत्।
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद् ध्रुवम्॥
सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम्।
हर्षानंदकरं शश्वद्धर्म मोक्षसुहृत्प्रदम्॥
॥ इति श्रीदेवकृत लक्ष्मीस्तोत्रं सम्पूर्णम्॥
श्री लक्ष्मी जी की आरती और महिमा (Click here)
******************************************
श्रीलक्ष्मीस्तोत्रं अगस्त्यरचितम् (Lakshmi Stotra Path)
जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये।
जय मातर्महालक्ष्मि संसारार्णवतारिणि॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे॥
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते॥
नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतं॥
रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे।
दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि॥
नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि।
ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनि॥
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते।
आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा॥
अब्जवासे नमस्तुभ्यं चपलायै नमो नमः।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः॥
नमः प्रद्युम्नजननि मातुस्तुभ्यं नमो नमः।
परिपालय भो मातर्मां तुभ्यं शरणागतं॥
शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणे॥
पाण्डित्यं शोभते नैव न शोभन्ति गुणा नरे।
शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना॥
तावद्विराजते रूपं तावच्छीलं विराजते।
तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति॥
लक्ष्मित्वयालंकृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः।
गुणैर्विहीना गुणिनो भवन्ति दुशीलिनः शीलवतां वरिष्ठाः॥
लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलं।
लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते॥
लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्मतां।
रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः॥
अस्माभिस्तव रूपलक्षणगुणान्वक्तुं कथं शक्यते।
मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवं॥
दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतं।
कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धन्नायकं कुरु॥
मां विलोक्य जननि हरिप्रिये।
निर्धनं त्वत्समीपमागतं॥
देहि मे झटिति लक्ष्मि।
कराग्रं वस्त्रकांचनवरान्नमद्भुतं॥
त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च॥
त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि।
त्राहि त्राहि जगन्मातर्दरिद्रात्त्राहि वेगतः॥
नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः।
धर्माधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी॥
दरिद्रार्णवमग्नोऽहं निमग्नोऽहं रसातले।
मज्जन्तं मां करे धृत्वा सूद्धर त्वं रमे द्रुतं॥
किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः।
अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये॥
एतच्श्रुत्वाऽगस्तिवाक्यं हृष्यमाण हरिप्रिया।
उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा॥
श्री लक्ष्मी उवाच
यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः।
शृणोति च महाभागस्तस्याहं वशवर्तिनी॥
नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति।
रणश्च नश्यते तीव्रं वियोगं नैव पश्यति॥
यः पठेत्प्रातरुत्थाय श्रद्धा-भक्तिसमन्वितः।
गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिना सह॥
सुखसौभाग्यसम्पन्नो मनस्वी बुद्धिमान् भवेत्।
पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः॥
इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितं।
विष्णुप्रसादजननं चतुर्वर्गफलप्रदं॥
राजद्वारे जयश्चैव शत्रोश्चैव पराजयः।
भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा॥
न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते।
दुर्वृत्तानां च पापानां बहुहानिकरं परं॥
मन्दुराकरिशालासु गवां गोष्ठे समाहितः।
पठेत्तद्दोषशान्त्यर्थं महापातकनाशनं॥
सर्वसौख्यकरं नृणामायुरारोग्यदं तथा।
अगस्रिआमुनिना प्रोक्तं प्रजानां हितकाम्यया॥
॥ इत्यगस्तिविरचितं लक्ष्मीस्तोत्रं सम्पूर्णं॥
महालक्ष्मी अष्टक स्तोत्र (हिंदी अर्थ सहित) (Click here)
******************************************
श्रीकनकधारास्तोत्रम् (Kanakadhara Stotram)
वन्दे वन्दारुमन्दारमिन्दिरानन्दकन्दलम्।
अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम्॥
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम्।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः॥१॥
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः॥२॥
विश्वामरेन्द्रपदविभ्रमदानदक्षं
आनन्दहेतुरधिकं मुरविद्विषोऽपि।
ईषन्निषीदतु मयि क्षणमीक्षणार्धम्
इन्दीवरोदरसहोदरमिन्दिरायाः॥३॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम्।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः॥४॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः॥५॥
कालाम्बुदालिललितोरसि कैटभारेः
धाराधरे स्फुरति या तडिदङ्गनेव।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः॥६॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः॥७॥
दद्याद्दयानुपवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः॥८॥
इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः॥९॥
गीर्देवतेति गरुडध्वजसुन्दरीति (गरुडध्वजभामिनीति)
शाकम्भरीति शशिशेखरवल्लभेति।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै॥१०॥
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै॥११॥
नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै॥१२॥
सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि। (सरोरुहाणि)
त्वद्वन्दनानि दुरिताहरणोद्यतानि (दुरितोत्तरणोद्यतानि, दुरितोद्धरणोद्यतानि)
मामेव मातरनिशं कलयन्तु मान्ये॥१३॥
यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः।
सन्तनोति वचनाङ्गमानसैः
त्वां मुरारिहृदयेश्वरीं भजे॥१४॥
सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम्॥१५॥
दिग् हस्तिभिः कनककुम्भमुखावसृष्ट-
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्।
प्रातर्नमामि जगतां जननीमशेष-
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्॥१६॥
कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः॥१७॥
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम्।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः॥१८॥
॥ इति श्रीमच्छङ्कराचार्यकृत श्री कनकधारास्तोत्रं सम्पूर्णम् ॥
नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै॥१९॥
नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै॥२०॥
नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै॥२१॥
देवि प्रसीद जगदीश्वरि लोकमातः
कल्याणगात्रि कमलेक्षणजीवनाथे।
दारिद्र्यभीतिहृदयं शरणागतं माम्
आलोकय प्रतिदिनं सदयैरपाङ्गैः॥२२॥
महालक्ष्मी पूजन विधि (मंत्र श्लोक सहित) (Click here)
*****************************************
श्रीलक्ष्मीकवचम् (Shri Lakshmi Kavach Path)
नारायण उवाच
शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम्।
पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके॥१॥
सम्प्राप्य कवचं ब्रह्मा तत्पद्मे ससृजे जगत्।
पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः॥२॥
पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः।
पाद्येन पद्मकल्पे च कवचं परमाद्भुतम्॥३॥
दत्तं सनत्कुमाराय प्रियपुत्राय धीमते।
कुमारेण च यद्दत्तं पुष्कराय च नारद॥४॥
यद्धृत्वा पाठनाद् ब्रह्मा सर्वसिद्धेश्वरो महान्।
परमैश्वर्यसंयुक्तः सर्वसम्पत्समन्वितः॥५॥
यद्धृत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः।
स्वायम्भुवो मनुः श्रीमान्पठनाद्धारणाद्यतः॥६॥
प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने।
पृथुः पृथ्वीपतिः सद्यो ह्यभवद्वारणाद्यतः॥७॥
कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः।
धर्मश्च कर्मणां साक्षी पाता यस्य प्रसादतः॥८॥
यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः।
भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः॥९॥
यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः।
सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः॥१०॥
राजा मरुतो भगवानभवद्धारणाद्यतः।
त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात्॥११॥
विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः।
मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान्॥१२॥
सर्वसम्पत्पदस्यास्य कवचस्य प्रजापतिः।
ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम्॥१३॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः।
पुण्यबीजं च महतां कवचं परमाद्भुतम्॥१४॥
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्।
श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः।१५॥।
ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु।
ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम॥१६॥
ॐ श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु।
ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु॥१७॥
ॐ श्रीं नारायणेशायै मम कण्ठं सदाऽवतु।
ॐ श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु॥१८॥
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु।
ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु॥१९॥
ओं श्रीं मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु।
ओं ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु॥२०॥
ॐ श्रीनिवासकान्तायै मम पदौ सदाऽवतु।
ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु॥२१॥
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया।
पद्मा मां दक्षिणे पातु नैरृत्यां श्रीर्हरिप्रिया॥२२॥
पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम्।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका॥२३॥
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु।
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम॥२४॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्।
सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम्॥२५॥
सुवर्णपर्वतं दत्वा मेरुतुल्यं द्विजातये।
यत्फलं लभते धर्मी कवचेन ततोऽधिकम्॥२६॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः।
कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि॥२७॥
अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम्।
देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत्॥२८॥
स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः।
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले॥२९॥
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि।
गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत्॥३०॥
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रसूम्।
कोटिसङ्ख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः॥३१॥
श्री रामरक्षा स्तोत्र (हिंदी अर्थ सहित) (Click Here)
******************************************

अष्टलक्ष्मी स्तोत्रम् (Ashtalakshmi Stotram)
॥ आदिलक्ष्मि ॥
सुमनस वन्दित सुन्दरि माधवि,
चन्द्र सहोदरि हेममये
मुनिगणमण्डित मोक्षप्रदायनि,
मञ्जुळभाषिणि वेदनुते।
पङ्कजवासिनि देवसुपूजित,
सद्गुण वर्षिणि शान्तियुते
जय जय हे मधुसूदन कामिनि,
आदिलक्ष्मि सदा पालय माम्॥1॥
॥ धान्यलक्ष्मि ॥
अहिकलि कल्मषनाशिनि कामिनि,
वैदिकरूपिणि वेदमये
क्षीरसमुद्भव मङ्गलरूपिणि,
मन्त्रनिवासिनि मन्त्रनुते।
मङ्गलदायिनि अम्बुजवासिनि,
देवगणाश्रित पादयुते
जय जय हे मधुसूदन कामिनि,
धान्यलक्ष्मि सदा पालय माम्॥2॥
॥ धैर्यलक्ष्मि ॥
जयवरवर्णिनि वैष्णवि भार्गवि,
मन्त्रस्वरूपिणि मन्त्रमये
सुरगणपूजित शीघ्रफलप्रद,
ज्ञानविकासिनि शास्त्रनुते।
भवभयहारिणि पापविमोचनि,
साधुजनाश्रित पादयुते
जय जय हे मधुसूधन कामिनि,
धैर्यलक्ष्मी सदा पालय माम्॥3॥
॥ गजलक्ष्मि ॥
जय जय दुर्गतिनाशिनि कामिनि,
सर्वफलप्रद शास्त्रमये
रधगज तुरगपदाति समावृत,
परिजनमण्डित लोकनुते।
हरिहर ब्रह्म सुपूजित सेवित,
तापनिवारिणि पादयुते
जय जय हे मधुसूदन कामिनि,
गजलक्ष्मी रूपेण पालय माम्॥4॥
॥ सन्तानलक्ष्मि ॥
अहिखग वाहिनि मोहिनि चक्रिणि,
रागविवर्धिनि ज्ञानमये
गुणगणवारिधि लोकहितैषिणि,
स्वरसप्त भूषित गाननुते।
सकल सुरासुर देवमुनीश्वर,
मानववन्दित पादयुते
जय जय हे मधुसूदन कामिनि,
सन्तानलक्ष्मी त्वं पालय माम्॥5॥
॥ विजयलक्ष्मि ॥
जय कमलासनि सद्गतिदायिनि,
ज्ञानविकासिनि गानमये
अनुदिनमर्चित कुङ्कुमधूसर,
भूषित वासित वाद्यनुते।
कनकधरास्तुति वैभव वन्दित,
शङ्कर देशिक मान्य पदे
जय जय हे मधुसूदन कामिनि,
विजयलक्ष्मी सदा पालय माम्॥6॥
॥ विद्यालक्ष्मि ॥
प्रणत सुरेश्वरि भारति भार्गवि,
शोकविनाशिनि रत्नमये
मणिमयभूषित कर्णविभूषण,
शान्तिसमावृत हास्यमुखे।
नवनिधिदायिनि कलिमलहारिणि,
कामित फलप्रद हस्तयुते
जय जय हे मधुसूदन कामिनि,
विद्यालक्ष्मी सदा पालय माम्॥7॥
॥ धनलक्ष्मि ॥
धिमिधिमि धिंधिमि धिंधिमि-धिंधिमि,
दुन्दुभि नाद सुपूर्णमये
घुमघुम घुङ्घुम घुङ्घुम घुङ्घुम,
शङ्खनिनाद सुवाद्यनुते।
वेदपूराणेतिहास सुपूजित,
वैदिकमार्ग प्रदर्शयुते
जय जय हे मधुसूदन कामिनि,
धनलक्ष्मि रूपेणा पालय माम्॥8॥
आदित्य हृदय स्तोत्र (हिंदी अर्थ सहित) (Click here)
******************************************
श्री लक्ष्मी चालीसा (Shri Lakshmi Chalisa Path)
मातु लक्ष्मी करि कृपा करो हृदय में वास।
मनो कामना सिद्ध कर पुरवहु मेरी आस॥
सिंधु सुता विष्णुप्रिये नत शिर बारंबार।
ऋद्धि सिद्धि मंगलप्रदे नत शिर बारंबार॥
सिन्धु सुता मैं सुमिरौं तोही।
ज्ञान बुद्धि विद्या दो मोहि॥
तुम समान नहिं कोई उपकारी।
सब विधि पुरबहु आस हमारी॥
जै जै जगत जननि जगदम्बा।
सबके तुमही हो स्वलम्बा॥
तुम ही हो घट घट के वासी।
विनती यही हमारी खासी॥
जग जननी जय सिन्धु कुमारी।
दीनन की तुम हो हितकारी॥
विनवौं नित्य तुमहिं महारानी।
कृपा करौ जग जननि भवानी॥
केहि विधि स्तुति करौं तिहारी।
सुधि लीजै अपराध बिसारी॥
कृपा दृष्टि चितवो मम ओरी।
जगत जननि विनती सुन मोरी॥
ज्ञान बुद्धि जय सुख की दाता।
संकट हरो हमारी माता॥
क्षीर सिंधु जब विष्णु मथायो।
चौदह रत्न सिंधु में पायो॥
चौदह रत्न में तुम सुखरासी।
सेवा कियो प्रभुहिं बनि दासी॥
जब जब जन्म जहां प्रभु लीन्हा।
रूप बदल तहं सेवा कीन्हा॥
स्वयं विष्णु जब नर तनु धारा।
लीन्हेउ अवधपुरी अवतारा॥
तब तुम प्रकट जनकपुर माहीं।
सेवा कियो हृदय पुलकाहीं॥
अपनायो तोहि अन्तर्यामी।
विश्व विदित त्रिभुवन की स्वामी॥
तुम सब प्रबल शक्ति नहिं आनी।
कहँ तक महिमा कहौं बखानी॥
मन क्रम वचन करै सेवकाई।
मन-इच्छित वांछित फल पाई॥
तजि छल कपट और चतुराई।
पूजहिं विविध भाँति मन लाई॥
और हाल मैं कहौं बुझाई।
जो यह पाठ करे मन लाई॥
ताको कोई कष्ट न होई।
मन इच्छित फल पावै फल सोई॥
त्राहि-त्राहि जय दुःख निवारिणी।
त्रिविध ताप भव बंधन हारिणि॥
जो यह चालीसा पढ़े और पढ़ावे।
इसे ध्यान लगाकर सुने सुनावै॥
ताको कोई न रोग सतावै।
पुत्र आदि धन सम्पत्ति पावै॥
पुत्र हीन और सम्पत्ति हीना।
अन्धा बधिर कोढ़ी अति दीना॥
विप्र बोलाय कै पाठ करावै।
शंका दिल में कभी न लावै॥
पाठ करावै दिन चालीसा।
ता पर कृपा करैं गौरीसा॥
सुख सम्पत्ति बहुत सी पावै।
कमी नहीं काहू की आवै॥
बारह मास करै जो पूजा।
तेहि सम धन्य और नहिं दूजा॥
प्रतिदिन पाठ करै मन माहीं।
उन सम कोई जग में नाहिं॥
बहु विधि क्या मैं करौं बड़ाई।
लेय परीक्षा ध्यान लगाई॥
करि विश्वास करैं व्रत नेमा।
होय सिद्ध उपजै उर प्रेमा॥
जय जय जय लक्ष्मी महारानी।
सब में व्यापित जो गुण खानी॥
तुम्हरो तेज प्रबल जग माहीं।
तुम सम कोउ दयाल कहूँ नाहीं॥
मोहि अनाथ की सुधि अब लीजै।
संकट काटि भक्ति मोहि दीजे॥
भूल चूक करी क्षमा हमारी।
दर्शन दीजै दशा निहारी॥
बिन दरशन व्याकुल अधिकारी।
तुमहिं अक्षत दुःख सहते भारी॥
नहिं मोहिं ज्ञान बुद्धि है तन में।
सब जानत हो अपने मन में॥
रूप चतुर्भुज करके धारण।
कष्ट मोर अब करहु निवारण॥
कहि प्रकार मैं करौं बड़ाई।
ज्ञान बुद्धि मोहिं नहिं अधिकाई॥
रामदास अब कहै पुकारी।
करो दूर तुम विपति हमारी॥
दोहा
त्राहि त्राहि दुःख हारिणी हरो बेगि सब त्रास।
जयति जयति जय लक्ष्मी करो शत्रुन का नाश॥
रामदास धरि ध्यान नित विनय करत कर जोर।
मातु लक्ष्मी दास पर करहु दया की कोर॥





Comments
Post a Comment